|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.36. अध्यायः 036
Mahabharata - Shalya Parva - Chapter Topics
चन्द्रे स्वभार्यास्वश्विन्यादिदंक्षपुत्रीषु इतरोपेक्षणेन रोहिण्यामेवासक्ते दक्षेण रोषाच्चन्द्रे यक्ष्मप्रक्षेपः॥ 1 ॥ देवै प्रसादितदक्षवचनाच्चन्द्रेण प्रभासतीर्थनिमज्जनेन क्षयरोगपरिहरणम्॥ 2 ॥ बलभद्रेण तत्तीर्थे मज्जनादि॥ 3 ॥

Mahabharata - Shalya Parva - Chapter Text
जनमेजय उवाच। 9-36-0x(5167)(62243)
किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत।
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत॥ 9-36-1(62244)
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी।
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने॥ 9-36-2(62245)
वैशम्पायन उवाच। 9-36-3x(5168)
दक्षस्य तनयास्तात प्रादुरासन्विशाम्पते।
स सप्तविंशतिं कन्या दक्ष सोमाय वै ददौ॥ 9-36-3(62246)
नक्षत्रयोगनिरताः सङ्ख्यानार्थं च ताभवन्।
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः॥ 9-36-4(62247)
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमाऽभवन्।
अत्यरिच्यत तासां तु रोहिणी रुपसम्पदा॥ 9-36-5(62248)
ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः।
साऽस्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा॥ 9-36-6(62249)
ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः।
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः॥ 9-36-7(62250)
सोमो वसति नास्मासु रोहिणीं भजते सदा।
ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर।
वत्स्यामो नियताहारास्तपश्चरणतत्पराः॥ 9-36-8(62251)
श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत्।
समं वर्तस्व सर्वासु मा त्वाऽधर्मो महान्स्पृशेत्॥ 9-36-9(62252)
तास्तु सर्वाऽब्रवीद्दक्षो गच्छध्वं शशिनोन्तिकम्।
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात्॥ 9-36-10(62253)
विसृष्टास्तास्तथा जग्मुः शीताशोर्भवनं शुभाः।
तथाऽपि सोमो भगवान्पुनरेव महीपते।
रोहिण्या सार्धमवसत्प्रीयमाणो मुहुर्मुहुः॥ 9-36-11(62254)
ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन्॥ 9-36-12(62255)
सोमो वसति नास्मासु नाकरोद्वचनं तव।
तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके॥ 9-36-13(62256)
तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत्।
समं वर्तस्व सर्वासु मा त्वां शप्स्ये विरोचन॥ 9-36-14(62257)
अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी।
रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः॥ 9-36-15(62258)
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा।
सोमो वसति नास्मासु तस्मान्नः शरणं भव॥ 9-36-16(62259)
रोहिण्यामेव भगवान्सदा वसति चन्द्रमाः।
न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति॥ 9-36-17(62260)
तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत्।
तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते॥ 9-36-18(62261)
ससर्ज रोषात्सोमाय स चोडुपतिमाविशत्।
स यक्ष्मणाऽभिभूतात्माक्षीयताहरहः शशी॥ 9-36-19(62262)
यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः।
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः॥ 9-36-20(62263)
न चामुच्यत शापाद्वै क्षयं चैवाधिगच्छति।
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे॥ 9-36-21(62264)
निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः।
ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः॥ 9-36-22(62265)
कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे।
ततो देवाः समागम्य सोममूचुर्महीपते॥ 9-36-23(62266)
किमिदं भवतो रूपमीदृशं सम्प्रकाशते।
कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम्॥ 9-36-24(62267)
श्रुत्वा तु कारणं त्वत्तो विधास्यामस्ततो वयम्।
एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः॥ 9-36-25(62268)
शापस्य कारमं चैव यक्ष्माणं च तथाऽऽत्मनः।
देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाऽब्रुवन्॥ 9-36-26(62269)
प्रसीद भगवन्सोमे शापोऽयं विनिवर्त्यताम्।
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते॥ 9-36-27(62270)
क्षयाच्चैवास्य देवेश प्रजाश्चैव गताः क्षयम्।
वीरुदोषधयश्चैव बीजानि विविधानि च।
तथा नरा लोकगुरो प्रसादं कर्तुमर्हसि॥ 9-36-28(62271)
एवमुक्तस्ततो देवान्प्राह वाक्यं प्रजापतिः।
नैतच्छक्यं मम वचो व्यावर्तयितुमञ्जसा॥ 9-36-29(62272)
हेतुना तु महाभागा निवर्तिष्यति केनचित्।
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः॥ 9-36-30(62273)
सरस्वत्या वरे तीर्थे निमज्जञ्शशलक्षणः।
पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम॥ 9-36-31(62274)
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति।
मासार्धं तु पुनर्वृद्विं सत्यमेतद्वचो मम॥ 9-36-32(62275)
समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम्।
आराधयतु देवेशं ततः कान्तिमवाप्स्यति॥ 9-36-33(62276)
सरस्वतीं ततः सोमः स जगामर्षिशासनात्।
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह॥ 9-36-34(62277)
अमावास्यां महातेजास्तत्रामज्जन्महाद्युतिः।
लोकान्प्रभासयामास शीतांशुत्वमवाप च॥ 9-36-35(62278)
देवास्तु सर्वे राजेन्द्र प्रसादं प्राप्य पुष्कलम्।
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन्॥ 9-36-36(62279)
ततः प्रजापतिः सर्वा विससर्जाथ देवताः।
सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत्॥ 9-36-37(62280)
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन।
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम॥ 9-36-38(62281)
स विसृष्टो महाराज जगामाथ स्वमालयम्।
प्रजाश्च मुदिता भूत्वा ईजिरे च यथा पुरा॥ 9-36-39(62282)
एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः।
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत्॥ 9-36-40(62283)
अमावास्यां महाराज नित्यशः शशलक्षणः।
स्नात्वाह्याप्यायते श्रीमान्प्रभासे तीर्थउत्तमे॥ 9-36-41(62284)
अतश्चैतत्प्रजानन्ति प्रभासमिति भूमिप।
प्रभां हि परमां लेभे तस्मिंश्चामज्ज्य चन्द्रमाः॥ 9-36-42(62285)
`लोकान्प्रभासयामास पुपोष च वपुस्तथा।
तत्र स्नात्वा हलीरामो दत्वा प्रीतोऽथ दक्षिणाः'॥ 9-36-43(62286)
ततस्तु चमसोद्भेदमभीतस्त्वगमद्बली।
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत॥ 9-36-44(62287)
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः।
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा॥ 9-36-45(62288)
उदपानमथागच्छत्त्वरावान्केशवाग्रजः।
आद्यं स्वस्त्ययनं चैव तत्रावाप्य महाबलः॥ 9-36-46(62289)
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय।
जानन्ति सिद्धा राजेन्द्र निगूढां तां सरस्वतीम्॥ ॥ 9-36-47(62290)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे षट्त्रिंशोऽध्यायः॥ 36 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-36-9 त्वा त्वां अधर्मः मा स्मृशेत्॥ 9-36-14 विरोचन हे विशेषेण रोचमान। त्वां माशप्स्ये। तव रोचनां शापेन न हरामि तथा यतस्वेत्यर्थः॥ 9-36-38 गच्छयतः इति क.पाठः॥ 9-36-36 षटत्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|